विकिलोकस्य संस्कृतभाषायाः सुभाषितोद्याने वः हार्दं स्वागतम् । 'विकिसूक्तिः' नाम संस्कृतभाषायाः सुभाषितसमुत्तारणस्य काचित् परियोजना अस्ति । अस्य अभिवृद्ध्यर्थे सम्पादनं समुत्तारणं वा यूयं स्वयमेव कर्तुं शक्नुथ । देवनगरीलिप्याः टङ्कनं (मुद्रलेखनं) कर्तुं साहाय्यकाः सूचनाः अत्र वर्तन्ते ।
सम्प्रति संस्कृतविकिसूक्तौ ४,८१३ पृष्ठानां सङ्ग्रहः विद्यते ।
शुक्रवासरः, जून् १२, २०२६; समयः- ००:४२ UTC
अवहितं देवा उन्नयथा पुनः ॥ (ऋग्वेदः १०-१३७-१)
हे ज्ञानिनः ! पतितः जनः उत्थाप्यताम् ।
एक चक्षुर्न काकोऽयं बिलमिच्छन्न पन्नगः । क्षीयते वर्धते चैव न समुद्रो न चन्द्रमा ॥ एकं नेत्रम् अस्ति । अयं काकः न । बिलम् इच्छति किन्तु सर्पः न । सः क्षीणः भवति, वर्धितश्च भवति । किन्तु समुद्रः चन्द्रः वा न ।
उत्तरम्
रामाद्याचय मेदिनीं धनपर्तेर्बीजं बलाल्लाङ्गलम् प्रेतेषान्महिषं तवास्ति वृषभः फालं त्रिशूलं तव । शक्ताहं तव चान्नदानकरणे स्कन्दोऽस्ति गोरक्षणे खिन्नाहं हर भिक्षया कुरु कृषिं गौरीवचः पातु वः ॥ कदाचित् पार्वती शिवम् उक्तवती - ‘भवतः भिक्षायाचनं दृष्ट्वा अहं खिन्ना अस्मि । अतः कृपया कृषिं करोतु’ इति । तदा शिवः अपृच्छत् - ‘किं कृषिः सुकरा ? तदर्थं नास्ति भूमिः अस्माकम् । जीबहलादयः न सन्ति । वृषभाः न सन्ति । वृषभाः यदि भवेयुः तर्हि तेषां पोषणरक्षणादिकं करणीयम् । किम् एतत्सर्वं शक्यम् ?’ इति । तदा पार्वती एकैकम् अपि समस्यां परिहरन्ती अवदत् - ‘परशुरामः समग्रभूमण्डलमेव स्ववशीकृतवान् अस्ति । ततः भूमिं प्राप्नोतु । कुबेरः धनधान्याधिपः । सः भवतः मित्रम् । ततः बीजार्थं धान्यं प्राप्नोतु । यमात् महिषं प्राप्नोतु । भवतः वृषभः अस्ति एव । अतः तौ एव हले योजयामः । भवतः त्रिशूलं हलाग्रं (फालं भवतु) कृषिसमये आहारम् आनीय दातुं गोपोषणार्थं च अहम् अस्मि । स्कन्दः गोरक्षणं करिष्यति । एवं विशेषव्ययं विना कृषिः शक्या’ इति । एतादृशानि गौरीवचनानि भवतः सर्वान् रक्षन्तु ।
विविधासु भाषासु विकिसूक्तिः उपलभ्यते -
മലയാളം (Malayalam) – தமிழ் (Tamil) – తెలుగు (Telugu) – English – Afrikaans – Albanian – العربية (Arabic) – Հայերեն (Armenian) – Azeri – Basque – Bosnian – Български (Bulgarian) – Catalan – 中文 (Chinese) – Croatian – Czech – Danish – Dutch – Esperanto – Estonian – Finnish – French – Galician – ქართულ (Georgian) – German – Ελληνικά (Greek) – עברית (Hebrew) – Hungarian – Icelandic – Indonesian – Italian – 日本語 (Japanese) – 한국어 (Korean) – Kurdish – Limburgian – Lithuanian – Norwegian (Bokmål) – Norwegian (Nynorsk) – فارسی (Persian) – Polish – Portuguese – Romanian – Русский (Russian) – Српски (Serbian) – Slovak – Slovenian – Spanish – Swedish – ไทย (Thai) – Turkish – Українська (Ukrainian) – Vietnamese – Welsh